Minalmalli
कर्णाटसाहित्यरत्नानि कर्णाटसाहित्यरत्नानि
भरतम् असमामं देश: । अस्मिन् देशे २८ राज्यानि स्न्ति । भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्ख्या ११० क्टोटी| भाषा: शताधिकाः। भारतवर्षस्य उत्तरदिशि पर्वतराज: हिमालय: अस्ति, दक्षिणे सिन्धु महासागर: अस्ति। भारतस्य उत्तरे नेपाल तिब्बत चीन च देशा: सन्ति। पश्चिमे पाकिस्तान अफगानिस्तान च देशा: सन्ति। पूर्वेबर्मा एवं दक्षिणे श्रीलंका मालदीव च देशा: सन्ति। कुष्ण-द्वीप निकोबार च निकट: इंडोनेशिया थाईलैंड च देशा: सन्ति। भारतस्य राजधानी दिल्ली अस्ति । अन्यमुख्य नगराणि मुम्बई कलकाता बेंगलोर् चेन्नै च सन्ति । भारते सप्तविंशति राज्यानि सन्ति। भारतं प्रायः पूर्ण हिन्दु देशः।
तिषु कर्णाटकराज्यमपि अन्यतमम् । वयं सर्वे कर्णाटकराज्ये वसाम: । राज्यस्यास्य भाषा कन्नडभाषा । अस्या: भाषाया: द्विसहसवर्षात्मक: इतिहास: अस्ति । अस्यां भाषायाम् अनेके साहित्यकारा: स्वप्रतिभया न केवलं भारतदेशे, किन्तु विदेशेष्वपि सुविख्याता: । एषु ७ लेखका: तावत भारतीयजान्पीठ प्रशस्तिमू अपि प्राप्नुवन् । ते तावत् कर्णाटकसाहित्यरन्नानि । कन्नडभाषायां कुवेम्पु, बेन्द्रे, कारन्त: इत्यादय: जान्पीट प्रशस्त्या पुरस्क्रुता: । भारतीयजान्पीठम् इति काचन संस्था वर्ववे । सा संस्था प्रतिवर्षं यावत सुप्रसिद्वाय भारतीयलेखकाय प्रशस्तिं वितरति । भारतीयसाहित्यक्षेत्रे एषा अत्युन्नता प्रशस्ति: । अस्माकं देशे यद्यपि अनेका: भाषा सन्ति, तासु १८ भाषाणाम् क्रुतिभ्य: एव एषा प्रशस्ति: दीयते। रामा जैन् सहु शान्तिप्रसाद जैन् इति दम्पतिभ्याम् एषा प्रशस्तिसंस्था १९४४ तमे वर्षे स्थापिता । किन्तु प्रशस्तिप्रदानं तु १९६५ तमे वर्षे आरब्घम्। कर्णाटकराज्ये ७ लेखका: प्रशस्तिभाज: अभवन् ।
प्रथमं तावत् राष्ट्रकवि: डा॥ कुवेम्पुमहोदय: १९६८ त्मे वर्षे एतां प्रशस्तिं प्राप्नोत् । तस्य क्रुति नाम् " रामायणदर्शनम् " इति । स: शिवमोगगामणडलस्य तीर्थहल्लिसमीपे कुप्पहल्लि ग्रामस्थ: । तस्य पूर्णानाम ' कुप्पहल्लि वेन्कटप्प पुट्टप्प: ' इति।
नवरत्नानि
Inline image 1
वराहमिहिरेण बृहत्सहितायां बहो: कालात् पूर्वमेव द्वाविंशतिरत्नानि प्रतिपादितानि ।
वज्रेन्द्रनीलमरकतर्केतरपद्मरागरुधिराख्या: । वैढूर्यपुलकविमलकराजमणिस्फटिकशशिकान्ता: ॥ सौगन्धिकगोमेधिकशमहानीलपुष्प परगाख्या: । ब्रह्ममणिज्योतीरससस्यकमुक्ताप्रवलानि ॥
१) पद्मराग:
भौतिकलक्षणम्
पद्मराग्स्य अन्यत् नाम माणिक्यम् इति । पद्मरागस्य उत्पत्तेर्लक्षणमाह: -
सौगन्धिककुरुविन्दस्फ़टिकेभ्य: पद्मरागसम्भूति: । सौगन्धिकजा भ्रमराञ्जानाब्जजम्बूरसधुतय: ॥ १ ॥
कुरुविन्दभवा: शबला मन्दधुतयशच धातुभिर्विध्दा: । स्फ़टिकभवा धुतिमन्तो नानावर्णा विशुध्दाशच ॥ २॥
Inline image 4 २) मौक्तिकम्
मौक्तिमं चन्द्रस्य प्रीतिकरम् । मौक्तिकस्य आकार:- मौक्तिकानि स्वच्छशवेतवर्णेन प्रकाशन्ते । वराहमिहिरस्य बृहत्संहितायाम् मौक्तिकरस्य उत्पत्ति: इत्यं वर्णितम अस्ति।
द्विपभुजगशुक्तिशङ्काभ्रवेणुतिमिसुकरप्रसूतानि । मुक्ताफमलानि तेषां बहुसाधु च शुक्तिजं भवति ॥ २ ॥
३) प्रवाल: रत्नपरीक्षाख्येस्मिन् ग्रन्थे प्रवाल: ब्रह्म, क्षत्रिय, वैशय, शूद्र रुपेण चतुर्धा विभक्त: । प्रवालधाणेन मनशशान्ति:, कुटुम्बे एकता सम्पत् वृध्दि: जायते । प्रवालं भस्मीकृत्य स्वीकरणेन अजीर्णव्याधिनिवारणं भवति। प्रवालस्य इतरनामानि १. लतामणि, २. विदम:, ३. रत्नाङ्ग्म्, ४. अङ्गारकणि:, ५. भीमरत्नम् इत्यादीनि।
४) मरकतम हारीतवर्णे प्रकाशमानाम् इदं रत्नम् बुधस्य प्रीतिकरम् इति आमनन्ति । बृहत् संहितायाम् मरतस्य लक्षणम् व्याख्यायते।
शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम् । सुरपितृकार्ये मरकतमतीव शुभदं नृणां विहितम् ॥
५) पुष्यराग: सुविशालप्रकृत्याम् वर्तमाना: सर्वेवर्णा: पुष्यरागे अन्तर्भवन्ति इदं रत्नं गुरुग्रह प्रीतिकरं इति संसथूयते । अयं तु पुष्यरग: बृहतसंहितायाम् एवं वर्णित्: ।
ईषत्पीतं पविच्छायं स्वच्छम् कल्पमनोहरम् । पुष्यरागमिति ख्यातं रत्नं रत्नपरीक्षकै: ॥ Inline image 5
६) वज्रम् नवरत्नेषु वज्रस्य नाम सर्वजनविदितमेव । इदं वज्रं वेणा नाम नधा: तीरे विशुध्दं दोषरहितम् उपलभ्यते इति वराहमिहिरस्य वचनानि ॥
वेणातटे विशुध्दं शिरीषकुसुमप्रभंच कौशलकम् । सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम् ॥
Inline image 2 ७) नील: शनिभगवत: प्रीतिपात्रम् इदं महानीलं सर्वशुभङ्करम्, एतस्य धारणेन राजयोग: सिदध्यति इति विषवास:। रत्नशास्त्रे त्रिविधानि निलरत्नानि कथितानि।
Inline image 3
१. इन्द्रनीलम् - केशा इव अत्यन्त नीलवर्णसहितम् । २. महानीलम् - भूमौ यदि स्थापयाम: तर्हि परित: सर्वत्र नीलमयं भासते । ३. नीलमणि: - विष्णुकान्तपुवत् प्रकाशते ॥
८) गोमेधिकम् राहुग्रस्य प्रीतिकरम् इदं गोमोधिकं गोमूत्रवर्णे परिदृश्ययते। अत एव एतस्य गोमेधिकम् इति नाम सार्थकं भवति । इदं रत्नं हिमालयपर्वतप्रान्तेषु सूर्यकान्तगोमोधिकं, चन्द्रकान्त गोमेधिकम् इति द्विप्रकारेण् उपलभ्यते। सूर्यस्य पुरत: अग्निज्वाला इव परिदृश्यमानं सूर्यकान्तगोमेघिकम् इति। चन्द्रकान्तिवेलायाम् हिमवत् शौत्यम् प्रदर्शयति चेत् तत् चन्द्रकान्तगोमेधिकम् इति गौमेघिकस्य लक्षणद्वयम् । एतट्स्य रत्न्स्य विषये अस्मिन् ग्रन्थे एवं क्षूयते चर्चिता: । यथा -
मधुबिन्दुसमं वापि गोमूत्रोघसमप्रभम् । गोमेधिकं तदाख्यातं रत्नसोममहीभुजा ॥
९) वैडूर्यम् (मरकतम्) के तुग्रहस्य प्रीतिकरमिदं मरकतं शुकपवर्णसदृशाम् । कदलीसदृशम् शिरीषकुसुम - तुल्यवर्णम् भवति। वैडूर्यस्य लक्षणम् वराहमिहिरेण इत्थम् निर्दिष्टम् -
शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम् । सुरपितृकर्ये मरकतमतीव शुभदं नृणां विहितम्॥
Inline image 6